२.६०.१४

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥

अन्वयः

सचिवैः by counsellors, तैलद्रोण्याम् in the oil vat, शायितम् made to lay down, तं नराधिपम् that king, ज्ञात्वा on knowing (having seen), हा alas, अयम् this, मृतः is dead, इति in this way, ताः those, स्त्रियः women, पर्यदेवयन् cried.

Summary

On seeing the king's body laid in the oil vat by the counsellors, the women cried Alas, the king is dead.

पदच्छेदः

तैलद्रोण्यांतैल–द्रोणी (७.१)
तुतु (अव्ययः)
सचिवैःसचिव (३.३)
शायितंशायित (√शायय् + क्त, २.१)
तंतद् (२.१)
नराधिपम्नराधिप (२.१)
हाहा (अव्ययः)
मृतोमृत (√मृ + क्त, १.१)
ऽयम्इदम् (१.१)
इतिइति (अव्ययः)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
स्त्रियस्स्त्री (१.३)
ताःतद् (१.३)
पर्यदेवयन्पर्यदेवयन् (√परि-देवय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तै द्रो ण्यांतुचि वैः
शायि तं तं राधि पम्
हामृ तोऽयमि ति ज्ञा त्वा
स्त्रि स्ताःर्य दे यन्