२.६१.१

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।
समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥

अन्वयः

ततः then, शर्वर्याम् when the night, व्यतीतायां तु passed, आदित्यस्य उदये at sunrise, राजकर्तारः those who perform royal investiture, द्विजातयः brahmins, समेत्य having been called, सभाम् assembly hall, ईयुः reached.

Summary

When the night finally ended and after the sunrise next day, the brahmins who perform royal investiture having been called and reached the assembly hall.

पदच्छेदः

व्यतीतायांव्यतीत (√व्यति-इ + क्त, ७.१)
तुतु (अव्ययः)
शर्वर्याम्शर्वरी (७.१)
आदित्यस्योदयेआदित्य (६.१)–उदय (७.१)
ततःततस् (अव्ययः)
समेत्यसमेत्य (√समा-इ + ल्यप्)
राजकर्तारःराजन्–कर्तृ (१.३)
सभाम्सभा (२.१)
ईयुर्ईयुः (√इ लिट् प्र.पु. बहु.)
द्विजातयःद्विजाति (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

व्य ती ता यांतु र्व र्या
मा दि त्य स्यो ये तः
मेत्य रा र्ता रः
भा मी युर्द्वि जा यः