२.६१.२१

नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥

अन्वयः

अराजके where there is no king, जनपदे in the country, कस्य चित् for any one, स्वकम् as his own, न भवति does not exist, नराः men, मत्स्याः इव like fish, नित्यम् ceaselessly, परस्परम् one another, भक्षयन्ति devour.

M N Dutt

In a kingless country a person hardly preserves his life; and like fishes people eat up one another.

Summary

In a country where there is no king, no one can own anything and, like fish, people devour one another ceaselessly.

पदच्छेदः

नाराजके (अव्ययः)–अराजक (७.१)
जनपदेजनपद (७.१)
स्वकंस्वक (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
कस्यचित्कश्चित् (६.१)
मत्स्यामत्स्य (१.३)
इवइव (अव्ययः)
नरानर (१.३)
नित्यंनित्यम् (अव्ययः)
भक्षयन्तिभक्षयन्ति (√भक्षय् लट् प्र.पु. बहु.)
परस्परम्परस्पर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना रा के दे
स्व कंतिस्य चित्
त्स्या रा नि त्यं
क्षन्तिस्प रम्