२.६३.१

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥

अन्वयः

ते दूताः those messengers, यामेव on whichever, रात्रिम् night, तां पुरीम् that city, प्रविशन्ति स्म were entering, तां रात्रिम् that night, भरतेनापि by Bharata also, अयम् this, आप्रियः distressing, स्वप्नः dream, दृष्टः has been seen.

M N Dutt

The very same night that the envoys entered the city, Bharata saw an evil dream.

Summary

On the very night the messengers were entering the city, Bharata had a distressing dream.

पदच्छेदः

याम्यद् (२.१)
एवएव (अव्ययः)
रात्रिंरात्रि (२.१)
तेतद् (१.३)
दूताःदूत (१.३)
प्रविशन्तिप्रविशन्ति (√प्र-विश् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
तांतद् (२.१)
पुरीम्पुरी (२.१)
भरतेनापिभरत (३.१)–अपि (अव्ययः)
तांतद् (२.१)
रात्रिंरात्रि (२.१)
स्वप्नोस्वप्न (१.१)
दृष्टोदृष्ट (√दृश् + क्त, १.१)
ऽयम्इदम् (१.१)
अप्रियःअप्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या मे रा त्रिं ते दू ताः
प्रवि न्तिस्म तांपु रीम्
ते नापि तां रा त्रिं
स्व प्नो दृ ष्टोऽयप्रि यः