२.६५.१९

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ।
अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥

अन्वयः

 कामिभिः people full of passion, परित्यक्तानि abandoned, तानि that, अद्य now, अनुरुदन्तीव as if weeping, सारथे O charioteer, पुरी city, अरण्यभूतेव like a forest, मे to me, प्रतिभाति it appears.

पदच्छेदः

तान्य्तद् (२.३)
अद्यानुरुदन्तीवअद्य (अव्ययः)–अनुरुदन्ति (√अनु-रुद् लट् प्र.पु. बहु.)–इव (अव्ययः)
परित्यक्तानिपरित्यक्त (√परि-त्यज् + क्त, १.३)
कामिभिःकामिन् (३.३)
अरण्यभूतेवअरण्य–भूत (√भू + क्त, १.१)–इव (अव्ययः)
पुरीपुरी (१.१)
सारथेसारथि (८.१)
प्रतिभातिप्रतिभाति (√प्रति-भा लट् प्र.पु. एक.)
मेमद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता न्य द्यानुरु न्ती
रि त्य क्तानि कामि भिः
ण्य भू तेपु री
सा थेप्रति भाति मे