२.६६.११

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।
न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ॥

अन्वयः

शयनीयः a place worthy of resting, हेमभूषितः decorated with gold, अयम् this, ते your, पर्यङ्क: couch, शून्यः is empty, अयम् च and this, इक्ष्वाकुजनः attendants of Ikshavaku, प्रहृष्टः with delight, मा to me, न प्रतिभाति does not appear.

M N Dutt

This sleeping bedstead of yours adorned with gold is empty. I do not see the race of Ikşvāku in their usual good spirits.

Summary

Your goldbedecked couch, worthy of resting lies empty. None of the attendants of the Ikshvakus look cheerful.

पदच्छेदः

शून्योशून्य (१.१)
ऽयंइदम् (१.१)
शयनीयस्शयनीय (√शी + अनीयर्, १.१)
तेत्वद् (६.१)
पर्यङ्कोपर्यङ्क (१.१)
हेमभूषितःहेमन्–भूषित (√भूषय् + क्त, १.१)
(अव्ययः)
चायम् (अव्ययः)–इदम् (१.१)
इक्ष्वाकुजनःइक्ष्वाकु–जन (१.१)
प्रहृष्टःप्रहृष्ट (√प्र-हृष् + क्त, १.१)
प्रतिभातिप्रतिभाति (√प्रति-भा लट् प्र.पु. एक.)
मेमद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शू न्यो ऽयं नी स्ते
र्य ङ्को हे भूषि तः
चा मि क्ष्वाकु नः
प्र हृ ष्टःप्रति भाति मे