२.६६.२६

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः ।
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः ॥

अन्वयः

यः who, मे to me, भ्राता brother, पिता father, बन्धुः relative, धीमतः wise, यस्य whose, दासः अस्मि I am a slave (of that wise man), तस्य such, अक्लिष्टकर्मणः of a man of unwearied actions, रामस्य to Rama, माम् about me, शीघ्रम् at once, आख्याहि announce.

M N Dutt

Do you now without delay convey the news of my arrival to the vigorous Rāma, who is at once my father, brother and friend, and whose beloved servant I am.

Summary

Announce at once my arrival to the wise Rama, the man of unwearied actions, my brother, father and friend whose slave I am.

पदच्छेदः

योयद् (१.१)
मेमद् (६.१)
भ्राताभ्रातृ (१.१)
पितापितृ (१.१)
बन्धुर्बन्धु (१.१)
यस्ययद् (६.१)
दासोदास (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
धीमतःधीमत् (६.१)
तस्यतद् (६.१)
मांमद् (२.१)
शीघ्रम्शीघ्रम् (अव्ययः)
आख्याहिआख्याहि (√आ-ख्या लोट् म.पु. )
रामस्याक्लिष्टकर्मणःराम (६.१)–अक्लिष्ट–कर्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यो मे भ्रा तापि तान्धु
र्यस्य दा सोऽस्मि धी तः
स्य मां शीघ्र मा ख्याहि
रा स्या क्लिष्टर्म णः