२.६६.३

स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।
भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ ॥

अन्वयः

धर्मात्मा a man of righteous conduct, सः भरतः that Bharata, श्रीविवर्जितम् devoid of cheer, स्वगृहम् his home, प्रविश्यैव on entering, जनन्याः mother's, शुभौ auspicious, चरणौ feet, प्रतिजग्राह clasped.

M N Dutt

On entering his own quarter which he found deprived of grace, the virtuous Bharata took hold of his mother's auspicious feet.

Summary

On entering home the righteous Bharata found it devoid of cheer and touched the auspicious feet of his mother (with reverence).

पदच्छेदः

तद् (१.१)
प्रविश्यैवप्रविश्य (√प्र-विश् + ल्यप्)–एव (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
स्वगृहंस्व–गृह (२.१)
श्रीविवर्जितम्श्री–विवर्जित (√वि-वर्जय् + क्त, २.१)
भरतःभरत (१.१)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
जनन्याश्जननी (६.१)
चरणौचरण (२.२)
शुभौशुभ (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र वि श्यै र्मा त्मा
स्वगृ हं श्रीविर्जि तम्
तः प्रेक्ष्य ग्रा
न्याश्च णौशु भौ