२.६६.३०

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
काल धर्मपरिक्षिप्तः पाशैरिव महागजः ॥

अन्वयः

तव your, पिता father, महागजः like a great elephant, पाशैरिव as though by cords, कालधर्मपरिक्षिप्तः caught by the noose of fate and time, पश्चिमाम् last, इमाम् this, वाचम् words, व्याजहार uttered.

Summary

Your father, caught by the noose of death, like a great elephant bound by cords, uttered these last words:

पदच्छेदः

इमांइदम् (२.१)
तुतु (अव्ययः)
पश्चिमांपश्चिम (२.१)
वाचंवाच् (२.१)
व्याजहारव्याजहार (√व्या-हृ लिट् प्र.पु. एक.)
पितापितृ (१.१)
तवत्वद् (६.१)
कालधर्मपरिक्षिप्तःकालधर्म–परिक्षिप्त (√परि-क्षिप् + क्त, १.१)
पाशैर्पाश (३.३)
इवइव (अव्ययः)
महागजःमहत्–गज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मांतुश्चि मां वा चं
व्या हापि ता
कार्म रि क्षि प्तः
पा शैरि हा जः