२.६६.४५

तत्पुत्र शीघ्रं विधिना विधिज्ञै;र्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।
संकाल्य राजानमदीनसत्त्व;मात्मानमुर्व्यामभिषेचयस्व ॥

पदच्छेदः

तत्तद् (२.१)
पुत्रपुत्र (८.१)
शीघ्रंशीघ्रम् (अव्ययः)
विधिनाविधि (३.१)
विधिज्ञैर्विधि–ज्ञ (३.३)
वसिष्ठमुख्यैःवसिष्ठ–मुख्य (३.३)
सहितोसहित (१.१)
द्विजेन्द्रैःद्विज–इन्द्र (३.३)
संकाल्यसंकाल्य (√सम्-कालय् + ल्यप्)
राजानम्राजन् (२.१)
अदीनसत्त्वम्अदीन–सत्त्व (२.१)
आत्मानम्आत्मन् (२.१)
उर्व्याम्उर्वी (७.१)
अभिषेचयस्वअभिषेचयस्व (√अभि-सेचय् लोट् म.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
त्पुत्र शी घ्रंविधि नावि धि ज्ञै
र्व सिष्ठ मु ख्यैःहि तोद्वि जे न्द्रैः
सं काल्य रा जा दीत्त्व
मा त्मा मु र्व्याभि षेस्व