२.६८.१

तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।
रोषेण महताविष्टः पुनरेवाब्रवीद्वचः ॥

अन्वयः

तदा then, भरतः Bharata, मातरम् mother, ताम् her, तथा in that manner, गर्हयित्वा having reproached, महता with great, रोषेण wrath, आविष्टः was overtaken, पुनरेव once again, वचः words, अब्रवीत् said.

M N Dutt

Having thus reproved his mother in great wrath, Bharata said again.

Summary

Overtaken by great wrath, Bharata reproached his mother and then said to her again:

पदच्छेदः

तांतद् (२.१)
तथातथा (अव्ययः)
गर्हयित्वागर्हयित्वा (√गर्हय् + क्त्वा)
तुतु (अव्ययः)
मातरंमातृ (२.१)
भरतस्भरत (१.१)
तदातदा (अव्ययः)
रोषेणरोष (३.१)
महताविष्टःमहत् (३.१)–आविष्ट (√आ-विश् + क्त, १.१)
पुनर्पुनर् (अव्ययः)
एवाब्रवीद्एव (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां थार्ह यि त्वातु
मा रंस्त दा
रो षे ता वि ष्टः
पु रे वाब्र वीद्व चः