२.६८.३

किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः ।
ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥

अन्वयः

ययोः to both of whom, त्वत्कृते on your account, तुल्यम् similar, मृत्युः death, विवासश्च exile, आगतौ have come, राजा the king, भृशधार्मिकः highly virtuous, रामो वा or Rama, ते to you, किन्नु what possible, अदूषयत् reviled?

M N Dutt

What qualities of yours were taxed by the king or the exceedingly virtuous Rāma, that both of them simultaneously have come by death and exile respectively through your agency?

Summary

Death for the king and exile for Rama, similar fate for both, have befallen on your account. What possible harm, either the king or the highly virtuous Rama has done to you?

पदच्छेदः

किं (२.१)
नुनु (अव्ययः)
तेत्वद् (४.१)
ऽदूषयद्अदूषयत् (√दूषय् लङ् प्र.पु. एक.)
राजाराजन् (१.१)
रामोराम (१.१)
वावा (अव्ययः)
भृशधार्मिकःभृश–धार्मिक (१.१)
ययोर्यद् (६.२)
मृत्युर्मृत्यु (१.१)
विवासश्विवास (१.१)
(अव्ययः)
त्वत्कृतेत्वद्–कृते (अव्ययः)
तुल्यम्तुल्य (१.१)
आगतौआगत (√आ-गम् + क्त, १.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किंनु ते ऽदू द्रा जा
रा मो वाभृ धार्मि कः
यो र्मृ त्युर्वि वाश्च
त्वत्कृ ते तुल्य मा तौ