२.६९.१

तथैव क्रोशतस्तस्य भरतस्य महात्मनः ।
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥

अन्वयः

तथैव in that way, क्रोशतः wailing, महात्मनः of the magnanimous, भरतस्य Bharata's, शब्दम् sound, आज्ञाय having recognised, कौशल्या Kausalya, सुमित्राम् addressing Sumitra, इदम् these words, अब्रवीत् spoke.

M N Dutt

As the high-souled Bharata was thus wailing, Kausalyā recognizing his voice spoke to Sumitra.

Summary

As magnanimous Bharata was wailing, Kausalya recognised his voice and said to Sumitra:

पदच्छेदः

तथैवतथा (अव्ययः)–एव (अव्ययः)
क्रोशतस्क्रोशत् (√क्रुश् + शतृ, ६.१)
तस्यतद् (६.१)
भरतस्यभरत (६.१)
महात्मनःमहात्मन् (६.१)
कौसल्याकौसल्या (१.१)
शब्दम्शब्द (२.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
सुमित्राम्सुमित्रा (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै क्रो स्तस्य
स्य हात्म नः
कौ ल्याब्द मा ज्ञा
सु मि त्रामिब्र वीत्