२.६९.२

आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ।
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥

अन्वयः

क्रूरकार्यायाः of a woman of cruel deeds, कैकेय्याः Kaikeyi's, सुतः son, भरतः Bharata, आगतः has come, दीर्घदर्शिनम् farsighted, तं भरतम् that Bharata, अहम् I, द्रष्टुम् to see, इच्छामि I am wishing

M N Dutt

Come is Bharata, the son of that one of crooked ways. I am desirous of seeing the farsighted Bharata.

Summary

Bharata, the farsighted son of Kaikeyi of cruel deeds has come and I wish to see him.

पदच्छेदः

आगतःआगत (√आ-गम् + क्त, १.१)
क्रूरकार्यायाःक्रूर–कार्य (६.१)
कैकेय्याकैकेयी (६.१)
भरतःभरत (१.१)
सुतःसुत (१.१)
तम्तद् (२.१)
अहंमद् (१.१)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
भरतंभरत (२.१)
दीर्घदर्शिनम्दीर्घ–दर्शिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः क्रू का र्या याः
कै के य्या तःसु तः
हं द्रष्टु मि च्छामि
तं दीर्घर्शि नम्