२.६९.२८

सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥

अन्वयः

आर्यः esteemed one, यस्य whose, अनुमते with sanction, गतः exiled, that person, अद्यैव now, क्षिप्रम् this very moment, सताम् virtuous men's, लोकात् from the world, सताम् virtuous men's, कीर्त्याः from renown, तथा and, सञ्जुष्टात् approved by virtuous men, कर्मणः from actions, भ्रश्यतु be expelled.

M N Dutt

may he that had approved the exile of that noble one into the woods, be speedily shut out from the world of the good, from their fame, and from their acts!

Summary

May the one who counselled the exile of my esteemed brother be expelled this very moment from the world approved by virtuous men, from their renown and from their (noble) actions

पदच्छेदः

सतांसत् (६.३)
लोकात्लोक (५.१)
सतांसत् (६.३)
कीर्त्याःकीर्ति (५.१)
सज्जुष्टात्सत्–जुष्ट (√जुष् + क्त, ५.१)
कर्मणस्कर्मन् (५.१)
तथातथा (अव्ययः)
भ्रश्यतुभ्रश्यतु (√भ्रंश् लोट् प्र.पु. एक.)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अद्यैवअद्य (अव्ययः)–एव (अव्ययः)
यस्यार्योयद् (६.१)–आर्य (१.१)
ऽनुमतेअनुमत (७.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां लो कात्स तां की र्त्याः
ज्जु ष्टा त्कर्मस्त था
भ्रश्य तु क्षिप्र द्यै
स्या र्योऽनु ते तः