२.६९.३१

मम दुःखमिदं पुत्र भूयः समुपजायते ।
शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥

अन्वयः

पुत्र son, मम to me, इदं दुःखम् this suffering, भूयः still more, समुपजायते is growing, शपथैः by oaths, शपमानः swearing, मे my, प्राणान् life, उपरुणत्सि हि you are obstructing (choking).

M N Dutt

O son, it grieves me more that you are afflicting my heart by taking oaths.

Summary

O son by swearing on oaths, you are choking the very breath of my life and my suffering has grown still more.

पदच्छेदः

मममद् (६.१)
दुःखम्दुःख (१.१)
इदंइदम् (१.१)
पुत्रपुत्र (८.१)
भूयःभूयस् (१.१)
समुपजायतेसमुपजायते (√समुप-जन् लट् प्र.पु. एक.)
शपथैःशपथ (३.३)
शपमानोशपमान (√शप् + शानच्, १.१)
हिहि (अव्ययः)
प्राणान्प्राण (२.३)
उपरुणत्सिउपरुणत्सि (√उप-रुध् लट् म.पु. )
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुःमि दं पुत्र
भू यःमु जा ते
थैः मा नोहि
प्रा णानुरुत्सि मे