२.७.१२

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥

अन्वयः

रुष्टया in a rage, पापदर्शिन्या evileyed, कुब्जया by the hunchback (Manthara), एवम् in this way, परुषं वच: harsh words, उक्ता having spoken, कैकेयी Kaikeyi, परम् great, विषादम् despondency, अगमत् obtained.

Summary

At these harsh words of the furious, evileyed hunchback Kaikeyi fell into great despondency.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्ताउक्त (√वच् + क्त, १.१)
तुतु (अव्ययः)
कैकेयीकैकेयी (१.१)
रुष्टयारुष्ट (√रुष् + क्त, ३.१)
परुषंपरुष (२.१)
वचःवचस् (२.१)
कुब्जयाकुब्ज (३.१)
पापदर्शिन्यापाप–दर्शिन् (३.१)
विषादम्विषाद (२.१)
अगमत्अगमत् (√गम् प्र.पु. एक.)
परम्पर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तातु कै के यी
रुष्ट यारु षं चः
कुब्ज या पा र्शि न्या
वि षात्प रम्