२.७.१३

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे ।
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥

अन्वयः

कैकेयी तु as for Kaikeyi, कुब्जाम् to the hunchback, अब्रवीत् spoke, मन्थरे O Manthara, क्षेमम् कच्चित् all is well I hope?, त्वाम् you, विषण्णवदनाम् a dejected face, भृशदु:खिताम् to deeply sorrowful, लक्षये हि I observe indeed.

Summary

Kaikeyi said to the hunchback, O Manthara isn't all well with you? I can mark it from your dejected face how greatly distressed you feel, indeed.

पदच्छेदः

कैकेयीकैकेयी (१.१)
त्व्तु (अव्ययः)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
कुब्जांकुब्ज (२.१)
कच्चित्कश्चित् (२.१)
क्षेमंक्षेम (२.१)
(अव्ययः)
मन्थरेमन्थरा (८.१)
विषण्णवदनांविषण्ण (√वि-सद् + क्त)–वदन (२.१)
हिहि (अव्ययः)
त्वांत्वद् (२.१)
लक्षयेलक्षये (√लक्षय् लट् उ.पु. )
भृशदुःखिताम्भृश–दुःखित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कै के यी त्वब्र वी त्कु ब्जां
च्चि त्क्षे मंन्थ रे
विण्ण नां हि त्वां
क्ष येभृ दुःखि ताम्