२.७.१५

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥

अन्वयः

सा कुब्जा that hunchback, विषण्णतरा भूत्वा being still more depressed, तस्या: her, हितैषिणी desiring the welfare, विषादयन्ती causing despondency, राघवम् of Rama, भेदयन्ती च also separating, प्रोवाच said.

Summary

That hunchback feeling still more depressed in her (Kaikeyi's) interest and intending to cause in her despondency and distance Rama from her spoke out:

पदच्छेदः

सातद् (१.१)
विषण्णतराविषण्णतर (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
कुब्जाकुब्ज (१.१)
तस्यातद् (६.१)
हितैषिणीहित–एषिन् (१.१)
विषादयन्तीविषादयत् (√वि-सादय् + शतृ, १.१)
प्रोवाचप्रोवाच (√प्र-वच् लिट् प्र.पु. एक.)
भेदयन्तीभेदयत् (√भेदय् + शतृ, १.१)
(अव्ययः)
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साविण्ण रा भू त्वा
कु ब्जा स्याहि तैषि णी
वि षा न्ती प्रो वा
भे न्ती रा वम्