२.७.१६

अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥

अन्वयः

देवि O queen, अक्षय्यम् unending, सुमहत् immense, त्वद्विनाशनम् your ruin, प्रवृत्तम् is in the offing, राजा दशरथ: king Dasaratha, रामम् of Rama, यौवराज्ये as heirapparent, अभिषेक्ष्यति is crowning.

Summary

O queen, your end is approaching, and it has no end and it is overwhelming. King Dasaratha is crowning Rama as heirapparent.

पदच्छेदः

अक्षेमंअक्षेम (१.१)
सुमहद्सु (अव्ययः)–महत् (१.१)
देविदेवी (८.१)
प्रवृत्तंप्रवृत्त (√प्र-वृत् + क्त, १.१)
त्वद्विनाशनम्त्वद्–विनाशन (१.१)
रामंराम (२.१)
दशरथोदशरथ (१.१)
राजाराजन् (१.१)
यौवराज्येयौवराज्य (७.१)
ऽभिषेक्ष्यतिअभिषेक्ष्यति (√अभि-सिच् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षे मंसु द्देवि
प्र वृ त्तं त्वद्वि ना नम्
रा मं थो रा जा
यौ रा ज्येऽभि षेक्ष्यति