२.७.२२

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥

अन्वयः

दुष्टात्मा evilminded one, स: he, भरतम् Bharata, तव बन्धुषु to your relations, अपवाह्य having sent, काल्ये at dawn tomorrow, रामम् Rama, निहतकण्टके rid of the thorns, राज्ये in the kingdom, स्थापयिता will be established.

Summary

That evilminded one, having sent Bharata away to your relations house, is going to install Rama unhindered in the kingdom at dawn tomorrow.

पदच्छेदः

अपवाह्यअपवाह्य (√अप-वाहय् + ल्यप्)
तद् (१.१)
दुष्टात्मादुष्ट (√दुष् + क्त)–आत्मन् (१.१)
भरतंभरत (२.१)
तवत्वद् (६.१)
बन्धुषुबन्धु (७.३)
काल्यंकाल्य (२.१)
स्थापयितास्थापयितृ (१.१)
रामंराम (२.१)
राज्येराज्य (७.१)
निहतकण्टकेनिहत (√नि-हन् + क्त)–कण्टक (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वाह्य दु ष्टा त्मा
तंन्धुषु
का ल्यं स्थायि ता रा मं
रा ज्येनिण्ट के