२.७.२९

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥

अन्वयः

मन्थरे O Manthara, मह्यम् for me, परमम् exceedingly, प्रियम् pleasant, इदम् this (news), आख्यासि telling, मे to me, प्रियम् pleasant (news), आख्यातु: one who communicates, एतत् this one is the gift, ते for you, भूय: still more, किं वा anything, करोमि shall I do?

Summary

O Manthara, the news you have brought me is exceedingly pleasant. What more can I do for you? Here is the gift for one who brings good tidings.

पदच्छेदः

इदंइदम् (२.१)
तुतु (अव्ययः)
मन्थरेमन्थरा (८.१)
मह्यम्मद् (४.१)
आख्यासिआख्यासि (√आ-ख्या लट् म.पु. )
परमंपरम (२.१)
प्रियम्प्रिय (२.१)
एतन्एतद् (१.१)
मेमद् (६.१)
प्रियम्प्रिय (१.१)
आख्यातुःआख्यातृ (६.१)
किं (२.१)
वावा (अव्ययः)
भूयःभूयस् (अव्ययः)
करोमिकरोमि (√कृ लट् उ.पु. )
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दंतुन्थ रेह्य
मा ख्यासि मंप्रि यम्
न्मेप्रि मा ख्या तुः
किं वा भू यः रोमि ते