२.७०.१६

चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य चितां चक्रुस्तथापरे ॥

पदच्छेदः

चन्दनागुरुनिर्यासान्चन्दन–अगुरु–निर्यास (२.३)
सरलंसरल (२.१)
पद्मकंपद्मक (२.१)
तथातथा (अव्ययः)
देवदारूणिदेवदारु (२.३)
चाहृत्य (अव्ययः)–आहृत्य (√आ-हृ + ल्यप्)
चितांचिता (२.१)
चक्रुस्चक्रुः (√कृ लिट् प्र.पु. बहु.)
तथापरेतथा (अव्ययः)–अपर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द नागुरु नि र्या सा
न्स लंद्म कं था
दे दा रूणि चा हृत्य
चि तां क्रुस्त था रे