२.७२.११

एवमुक्ता च तेनाशु सखी जनसमावृता ।
गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥

अन्वयः

एवम् in this way, उक्त्वा having said, आशु quickly, तेन by him, बलवत् forcibly, गृहीता caught hold of, सखीजन समावृता surrounded by her companions, सा कुब्जा that hunchback, तत् गृहम् that house, अनादयत् reverberated with her cries.

M N Dutt

Having said this, he furiously fell upon the hump backed one surrounded by her maids. Thereupon she with her cries made the chamber resound.

Summary

Saying thus, he forcibly caught hold of the hunchback amidst her companions when she filled the house with her cries.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्ताउक्त (√वच् + क्त, १.१)
(अव्ययः)
तेनाशुतद् (३.१)–आशु (अव्ययः)
सखीजनसमावृतासखी–जन–समावृत (√समा-वृ + क्त, १.१)
गृहीतागृहीत (√ग्रह् + क्त, १.१)
बलवत्बलवत् (२.१)
कुब्जाकुब्ज (१.१)
सातद् (१.१)
तद्गृहम्तद् (२.१)–गृह (२.१)
अनादयत्अनादयत् (√नादय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्ता ते नाशु
खी मावृ ता
गृ ही ता त्कु ब्जा
साद्गृ ना यत्