२.७२.२२

इमामपि हतां कुब्जां यदि जानाति राघवः ।
त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥

अन्वयः

धर्मात्मा righteous, राघवः Rama, इमाम् this, कुब्जाम् अपि hunchback also, हताम् as slain, जानाति यदि if he comes to know, ध्रुवम् surely, त्वां च you, मां च हि me also, नाभिभाषिष्यते will never talk (to us).

M N Dutt

If Rāghava knows that the hump-backed one has been slain, he sure' will speak neither with you nor me.

Summary

If righteous Rama comes to know that this hunchback has been slain by us, he will certainly never talk to you or me.

पदच्छेदः

इमाम्इदम् (२.१)
अपिअपि (अव्ययः)
हतांहत (√हन् + क्त, २.१)
कुब्जांकुब्ज (२.१)
यदियदि (अव्ययः)
जानातिजानाति (√ज्ञा लट् प्र.पु. एक.)
राघवःराघव (१.१)
त्वांत्वद् (२.१)
(अव्ययः)
मांमद् (२.१)
चैव (अव्ययः)–एव (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
नाभिभाषिष्यते (अव्ययः)–अभिभाषिष्यते (√अभि-भाष् लृट् प्र.पु. एक.)
ध्रुवम्ध्रुवम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मापि तां कु ब्जां
दि जा नाति रा वः
त्वां मां चै र्मा त्मा
नाभि भा षिष्य तेध्रु वम्