२.७२.२३

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।
न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् ॥

अन्वयः

लक्ष्मणानुजः Lakshmana's younger brother, शत्रुघ्नः Satrughna, भरतस्य Bharata's, वचः words, श्रुत्वा after hearing, ततः then, रोषात् from fury, न्यवर्तत restrained, ताम् that, मन्थराम् Manthara, मुमोच च also released.

M N Dutt

Hearing Bharata's words, Satrughna, younger brother to Lakşmaņa, refrained from that wrong and set free the hump-backed woman in a swoon.

Summary

Hearing the words of Bharata, Satrughna, the younger brother of Lakshmana restrained his fury and also released Manthara.

पदच्छेदः

भरतस्यभरत (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
शत्रुघ्नोशत्रुघ्न (१.१)
लक्ष्मणानुजःलक्ष्मण–अनुज (१.१)
न्यवर्ततन्यवर्तत (√नि-वृत् लङ् प्र.पु. एक.)
ततोततस् (अव्ययः)
रोषात्रोष (५.१)
तांतद् (२.१)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
(अव्ययः)
मन्थराम्मन्थरा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य चः श्रु त्वा
त्रु घ्नोक्ष्म णानु जः
न्यर्त तो रो षा
त्तांमु मोन्थ राम्