२.७२.७

तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् ।
गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ॥

अन्वयः

तदा then, द्वास्स्थाः the gatekeepers, सुभृशम् many, पापकारिणीम् doer of sinful deeds, अकरुणाम् without compassion, तां कुब्जाम् that hunchback, समीक्ष्य seeing, गृहीत्वा seizng, शत्रुघ्नाय to Satrughna, न्यवेदयन् informed.

M N Dutt

At that time seeing that one of horrible misdeeds, (Bharata) who stood near the door, seizing the hump backed one ruthlessly, took her to Satrughna, and said.

Summary

Seeing the hunchback, doer of many sinful deeds, the gatekeepers caught hold of her and informed Satrughna.

पदच्छेदः

तांतद् (२.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
तदातदा (अव्ययः)
द्वाःस्थोद्वाःस्थ (१.१)
भृशंभृशम् (अव्ययः)
पापस्यपाप (६.१)
कारिणीम्कारिन् (२.१)
गृहीत्वाकरुणांगृहीत्वा (√ग्रह् + क्त्वा)–अकरुण (२.१)
कुब्जांकुब्ज (२.१)
शत्रुघ्नायशत्रुघ्न (४.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां मीक्ष्य दा द्वाः स्थो
भृ शं पास्य कारि णीम्
गृ ही त्वारु णं कु ब्जां
त्रु घ्नान्य वे यत्