२.७३.१५

एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् ।
यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥

अन्वयः

यः त्वम् such as you are, ज्येष्ठे in the eldest, नृप सुते in king's son, पृथिवीम् kingdom, दातुम् to bestow, इच्छसि are desiring, एवम् in this way, भाषमाणस्य talking, ते to you, श्रीः goddess of prosperity, पद्मा Lakshmi, उपतिष्ठताम् may grace you.

M N Dutt

For saying this, may Lakşmi seated on the lotus remain at they side; inasmuch you wish to confer the earth on the eldest son of the monarch!

Summary

May Lakshmi, goddess of prosperity, abide in you for having expressed your desire to bestow the kingdom upon the king's eldest son.

पदच्छेदः

एवंएवम् (अव्ययः)
तेत्वद् (६.१)
भाषमाणस्यभाषमाण (√भाष् + शानच्, ६.१)
पद्मापद्मा (१.१)
श्रीर्श्री (१.१)
उपतिष्ठताम्उपतिष्ठताम् (√उप-स्था लोट् प्र.पु. एक.)
यस्यद् (१.१)
त्वंत्वद् (१.१)
ज्येष्ठेज्येष्ठ (७.१)
नृपसुतेनृप–सुत (७.१)
पृथिवींपृथिवी (२.१)
दातुम्दातुम् (√दा + तुमुन्)
इच्छसिइच्छसि (√इष् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं ते भा मास्य
द्मा श्रीरु तिष्ठ ताम्
स्त्वं ज्ये ष्ठेनृसु ते
पृथि वीं दातु मिच्छसि