२.७४.१९

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः ।
समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥

पदच्छेदः

विसर्पद्भिर्विसर्पत् (√वि-सृप् + शतृ, ३.३)
इवाकाशेइव (अव्ययः)–आकाश (७.१)
विटङ्काग्रविमानकैःविटङ्क–अग्र–विमानक (३.३)
समुच्छ्रितैर्समुच्छ्रित (√समुत्-श्रि + क्त, ३.३)
निवेशास्निवेश (१.३)
तेतद् (१.३)
बभुःबभुः (√भा लिट् प्र.पु. बहु.)
शक्रपुरोपमाःशक्र–पुर–उपम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि र्पद्भिरि वा का शे
वि ङ्काग्रवि मा कैः
मुच्छ्रि तैर्नि वे शा स्ते
भुःक्रपु रो माः