२.७४.९

अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम् ।
निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः ॥

अन्वयः

अपरे some others, कूपान् wells, आयतम् wide, श्वभ्रम् chasm, पांसुभिः with loose soil, अपूरयन् filled, ततः thereafter, केचित् some, निम्नभागान् low level grounds, समन्ततः on all sides, समान् evenly, चक्रुः made.

Summary

Some filled wells and chasms with loose soil, while others made low level grounds plain and wide on all sides.

पदच्छेदः

अपरेअपर (१.३)
ऽपूरयन्अपूरयन् (√पूरय् लङ् प्र.पु. बहु.)
कूपान्कूप (२.३)
पांसुभिःपांसु (३.३)
श्वभ्रम्श्वभ्र (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)
निम्नभागांस्निम्न–भाग (२.३)
तथातथा (अव्ययः)
केचित्कश्चित् (१.३)
समांश्सम (२.३)
चक्रुःचक्रुः (√कृ लिट् प्र.पु. बहु.)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रे ऽपू न्कू पा
न्पांसु भिः श्वभ्र मा तम्
निम्न भा गांस्त था केचि
त्स मां श्च क्रुःन्त तः