२.७५.३

स तूर्य घोषः सुमहान्दिवमापूरयन्निव ।
भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत् ॥

अन्वयः

सुमहान् shrill, सः that, तूर्यघोषः sound of trumpets, दिवम् the heaven, आपूरयन्निव as if filling, शोकसंतप्तम् griefstricken, भरतम् Bharata, भूयः still more, शोकैः with sorrows, अरन्ध्रयत् filled.

M N Dutt

And as if filling the heavens, those powerful blasts of the trumpet repeatedly rendered Bharata burning in grief the more aggrieved.

Summary

The shrill trempets which seemed to fill the heavens caused much more distress to the already griefstricken Bharata.

पदच्छेदः

तद् (१.१)
तूर्यघोषःतूर्य–घोष (१.१)
सुमहान्सु (अव्ययः)–महत् (१.१)
दिवम्दिव् (२.१)
आपूरयन्न्आपूरयत् (√आ-पूरय् + शतृ, १.१)
इवइव (अव्ययः)
भरतंभरत (२.१)
शोकसंतप्तंशोक–संतप्त (√सम्-तप् + क्त, २.१)
भूयःभूयस् (अव्ययः)
शोकैर्शोक (३.३)
अरन्ध्रयत्अरन्ध्रयत् (√रन्ध्रय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तूर्य घो षःसु हा
न्दि मा पून्नि
तं शो सं प्तं
भू यः शो कैन्ध्र यत्