२.७५.४

ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च ।
नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥

अन्वयः

ततः then, प्रबुद्ध: awakened, भरतः Bharata, अहम् I, राजा king, न not, इति thus, उक्त्वा having said, तम् घोषम् that sound, सन्निवर्त्य च having stopped, शत्रुघ्नम् to Satrughna, इदम् these words, अब्रवीत् said.

M N Dutt

Then awaking and silencing those sounds with saying, “I am not the king," he said to Satrughna.

Summary

Then Bharata waking up, exclaimed, I am not the king, ordered the pipers to stop and said to Satrughna:

पदच्छेदः

ततःततस् (अव्ययः)
प्रबुद्धोप्रबुद्ध (√प्र-बुध् + क्त, १.१)
भरतस्भरत (१.१)
तंतद् (२.१)
घोषंघोष (२.१)
संनिवर्त्यसंनिवर्त्य (√संनि-वर्तय् + ल्यप्)
(अव्ययः)
नाहं (अव्ययः)–मद् (१.१)
राजेतिराजन् (१.१)–इति (अव्ययः)
चाप्य् (अव्ययः)–अपि (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
शत्रुघ्नम्शत्रुघ्न (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोप्र बु द्धो
स्तं घो षं संनिर्त्य
ना हं रा जेति चा प्यु क्त्वा
त्रुघ्नमिब्र वीत्