२.७६.१८

सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् ।
समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् ॥

अन्वयः

गुणवर्तिनाम् of the virtuous, साधूनाम् of the pious, आर्यमिश्राणाम् noble ones, समक्षम् in the presence, बलात् with all force, विनिवर्तयितुम् to bring back, सर्वोपायम् by all means, वर्तिष्ये I shall attempt.

M N Dutt

I will in presence of this mixed assembly of pious and honourable persons following every perfection, adopt every expedient to bring back Rāma.

Summary

I shall employ all possible means to bring him back and join you who are respectable, virtuous and pious.

पदच्छेदः

सर्वोपायंसर्व–उपाय (२.१)
तुतु (अव्ययः)
वर्तिष्येवर्तिष्ये (√वृत् लृट् उ.पु. )
विनिवर्तयितुंविनिवर्तयितुम् (√विनि-वर्तय् + तुमुन्)
बलात्बल (५.१)
समक्षम्समक्ष (२.१)
आर्यमिश्राणांआर्यमिश्र (६.३)
साधूनांसाधु (६.३)
गुणवर्तिनाम्गुण–वर्तिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वो पा यंतु र्ति ष्ये
विनिर्तयि तुं लात्
क्ष मार्य मि श्रा णां
सा धू नांगुर्ति नाम्