२.७६.२३

ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे ।
यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ॥

अन्वयः

ततः thereafter, गृहेगृहे in every house, सर्वाः all, योधाङ्गनाः wives of soldiers, यात्रागमनम् for expedition, आज्ञाय having come to know, हर्षिताः gladly, सर्वान् all, भर्त्रून् their husbands, त्वरयन्ति स्म hastened them up.

M N Dutt

Hearing of the journey to Rāma, for bringing him back the wives of the soldiers apprised of the order that had been issued to the latter, being exceedingly delighted, hurried on.

Summary

Then, the wives of the soldiers having come to know of the expedition were all delighted and in every household hastened up their husbands.

पदच्छेदः

ततोततस् (अव्ययः)
योधाङ्गनाःयोध–अङ्गना (१.३)
सर्वासर्व (१.३)
भर्तॄन्भर्तृ (२.३)
सर्वान्सर्व (२.३)
गृहेगृह (७.१)
गृहेगृह (७.१)
यात्रागमनम्यात्रा–गमन (२.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
त्वरयन्तित्वरयन्ति (√त्वरय् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
हर्षिताःहर्षित (√हर्षय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो यो धाङ्ग नाः र्वा
र्तॄ न्स र्वान्गृ हेगृ हे
या त्रा मा ज्ञा
त्व न्तिस्मर्षि ताः