२.७६.२४

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः ।
सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥

अन्वयः

ते those, बलाध्यक्षाः chiefs of army, हयैः horses, शीघ्रैः fastmoving, गोरथैः bullock carts, महाजवैः of swift, स्यन्दनैश्च by chariots, योधैश्च सह with soldiers, सर्वम् all, बलम् army, अचोदयन् urged.

M N Dutt

And the generals expeditiously despatched their forces with warriors by means of horses and cares and cars fleet as the mind.

Summary

Those chiefs of the army urged the soldiers, horses, fastmoving bullockcarts and swift chariots (to move on).

पदच्छेदः

तेतद् (१.३)
हयैर्हय (३.३)
गोरथैःगो–रथ (३.३)
शीघ्रैःशीघ्र (३.३)
स्यन्दनैश्स्यन्दन (३.३)
(अव्ययः)
मनोजवैःमनस्–जव (३.३)
सहसह (अव्ययः)
योधैर्योध (३.३)
बलाध्यक्षाबल–अध्यक्ष (१.३)
बलंबल (२.१)
सर्वम्सर्व (२.१)
अचोदयन्अचोदयन् (√चोदय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते यै र्गो थैः शी घ्रैः
स्यन्द नैश्च नो वैः
यो धैर्ब ला ध्य क्षा
लंर्व चो यन्