२.७६.२७

स राघवः सत्यधृतिः प्रतापवा;न्ब्रुवन्सुयुक्तं दृढसत्यविक्रमः ।
गुरुं महारण्यगतं यशस्विनं; प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥

अन्वयः

तदा then, राघवः Bharata, सत्यधृतिः firm in truth, प्रतापवान् valiant, दृढसत्यविक्रमः whose valour comes out of unshakable truth, सुयुक्तम् judiciously, ब्रुवन् speaking, भरतः Bharata, महारण्यगतम् gone to the great forest, यशस्विनम् illustrious, गुरुम् esteemed brother, प्रसादयिष्यन् to propitiate, अब्रवीत् said.

M N Dutt

Then that powerful descendant of Raghu of truthful character, and having unswerving truth for his prowess, Bharata, having said what was fit, spoke words calculated to gladden his illustrious superior gone to the mighty forest.

Summary

Bharata, a descendant of the Raghu race, firm in truth, one whose valour comes out of unswerving truth, speaking judiciously said this to propitiate his esteemed brother who was in the dense forest:

पदच्छेदः

तद् (१.१)
राघवःराघव (१.१)
सत्यधृतिःसत्य–धृति (१.१)
प्रतापवान्प्रतापवत् (१.१)
ब्रुवन्ब्रुवत् (√ब्रू + शतृ, १.१)
सुयुक्तंसु (अव्ययः)–युक्त (२.१)
दृढसत्यविक्रमःदृढ–सत्य–विक्रम (१.१)
गुरुंगुरु (२.१)
महारण्यगतंमहत्–अरण्य–गत (√गम् + क्त, २.१)
यशस्विनंयशस्विन् (२.१)
प्रसादयिष्यन्प्रसादयिष्यत् (√प्र-सादय् + कृत्, १.१)
भरतोभरत (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तदातदा (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
रा वःत्यधृ तिःप्र ता वा
न्ब्रुन्सु यु क्तंदृत्य विक्र मः
गु रुं हाण्य तंस्वि नं
प्र सा यि ष्यन्भ तोऽब्र वीत्त दा