२.७६.२९

स सूतपुत्रो भरतेन सम्य;गाज्ञापितः संपरिपूर्णकामः ।
शशास सर्वान्प्रकृतिप्रधाना;न्बलस्य मुख्यांश्च सुहृज्जनं च ॥

अन्वयः

भरतेन by Bharata, सम्यक् distinctly, आज्ञापितः having been ordered, सम्परिपूर्णकामः with his desire fulfilled, सः that, सूतपुत्रः charioteer, सर्वान् all, प्रकृतिप्रधानान् to important subjects, बलस्य army's, मुख्यांश्च chiefs, सुहृज्जनं च to friends, शशास ordered.

Summary

The charioteer categorically commanded by Bharata, his desire fulfilled, communicated the royal mandate to all important subjects, chiefs of army and friends.

पदच्छेदः

तद् (१.१)
सूतपुत्रोसूत–पुत्र (१.१)
भरतेनभरत (३.१)
सम्यग्सम्यक् (अव्ययः)
आज्ञापितःआज्ञापित (√आ-ज्ञापय् + क्त, १.१)
संपरिपूर्णकामःसंपरिपूर्ण (√संपरि-पृ + क्त)–काम (१.१)
शशासशशास (√शास् लिट् प्र.पु. एक.)
सर्वान्सर्व (२.३)
प्रकृतिप्रधानान्प्रकृति–प्रधान (२.३)
बलस्यबल (६.१)
मुख्यांश्मुख्य (२.३)
(अव्ययः)
सुहृज्जनंसुहृद्–जन (२.१)
(अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
सू पु त्रो तेम्य
गा ज्ञापि तः संरि पूर्ण का मः
शा र्वान्प्रकृ तिप्र धा ना
न्बस्य मु ख्यांश्चसु हृज्ज नं