२.७७.१७

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥

अन्वयः

सुवेषाः welldressed, शुद्धवसनाः in clean clothing, ताम्रमृष्टानुलेपनाः anointed with pure red sandalpaste, ते सर्वे all those, विविधैः various, यानैः on vehicles, शनैः slowly, भरतम् Bharata, अन्वयुः followed.

Summary

Dressed well in clean clothes and anointed with pure red sandalpaste, they all slowly followed Bharata, mounting on various vehicles.

पदच्छेदः

सुवेषाःसु (अव्ययः)–वेष (१.३)
शुद्धवसनास्शुद्ध–वसन (१.३)
ताम्रमृष्टानुलेपनाःताम्र–मृष्ट (√मृज् + क्त)–अनुलेपन (१.३)
सर्वेसर्व (१.३)
तेतद् (१.३)
विविधैर्विविध (३.३)
यानैःयान (३.३)
शनैर्शनैस् (अव्ययः)
भरतम्भरत (२.१)
अन्वयुःअन्वयुः (√अनु-या प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु वे षाः शुद्ध ना
स्ताम्र मृ ष्टानु ले नाः
र्वे तेविवि धै र्या नैः
नैर्भन्व युः