२.७८.१०

तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥

अन्वयः

अथ thereafter, प्रतापवान् valiant, विनयज्ञः conversant with modesty, सूतपुत्रः son of charioteer, Sumantra, आयान्तम् approaching, तम् him, सम्प्रेक्ष्य having seen, विनीतवत् humbly, भरताय to Bharata, आचचक्षे informed.

M N Dutt

Seeing Guha approaching, the powerful son of the charioteer knowing season, humbly informed Bharata of it, saying.

Summary

The valiant Sumantra, conversant with ways of modesty, observed Guha approaching them and humbly informed Bharata.

पदच्छेदः

तम्तद् (२.१)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
तुतु (अव्ययः)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
सूतपुत्रःसूत–पुत्र (१.१)
प्रतापवान्प्रतापवत् (१.१)
भरतायाचचक्षेभरत (४.१)–आचचक्षे (√आ-चक्ष् लिट् प्र.पु. एक.)
ऽथअथ (अव्ययः)
विनयज्ञोविनय–ज्ञ (१.१)
विनीतवत्विनीत (√वि-नी + क्त)–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा या न्तंतु सं प्रेक्ष्य
सू पु त्रःप्र ता वान्
ता या क्षेऽथ
वि ज्ञोवि नी वत्