२.७८.१४

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥

अन्वयः

गुहः Guha, अभ्यनुज्ञाम् permission, लब्ध्वा having obtained, संहृष्टः delighted, ज्ञातिभिः relatives, परिवारितः escorted by, आगम्य having approached, प्रह्वः bowing humbly, भरतम् to Bharata, वचनम् words, अब्रवीत् said.

M N Dutt

Receiving permission, Guha, right glad, appeared before Bharata, bending low, and said.

Summary

Having obtaind the permission, a delighted Guha, escorted by his relatives, approached Bharata and humbly said:

पदच्छेदः

लब्ध्वाभ्यनुज्ञांलब्ध्वा (√लभ् + क्त्वा)–अभ्यनुज्ञा (२.१)
संहृष्टोसंहृष्ट (√सम्-हृष् + क्त, १.१)
ज्ञातिभिःज्ञाति (३.३)
परिवारितःपरिवारित (√परि-वारय् + क्त, १.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
भरतंभरत (२.१)
प्रह्वोप्रह्व (१.१)
गुहोगुह (१.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्ध्वाभ्य नु ज्ञां सं हृ ष्टो
ज्ञाति भिःरि वारि तः
म्य तं प्र ह्वो
गु होब्र वीत्