२.७९.१८

प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः ।
यथा सूर्यांशुसंतप्तो हिमवान्प्रस्रुतो हिमम् ॥

अन्वयः

सूर्यांशुसन्तप्तः heated by the Sun's rays, हिमवान् Himalayas, यथा just as, हिमं ice, प्रसृतः melted, सर्वगात्रेभ्यः from all limbs, शोकाग्निसम्भवम् caused by the fire of grief, स्वेदम् sweat, प्रसृतः poured out.

M N Dutt

Perspiration produced by the fire of sorrow issued out of all his limbs, as the Himavat heated by the solar warmth generates water.

Summary

Like the ice melted by the heat of the Sun's rays flows down the Himalayas, sweat poured from all parts of his body caused by the fire of grief.

पदच्छेदः

प्रस्रुतःप्रस्रुत (√प्र-स्रु + क्त, १.१)
सर्वगात्रेभ्यःसर्व–गात्र (५.३)
स्वेदःस्वेद (१.१)
शोकाग्निसम्भवःशोक–अग्नि–सम्भव (१.१)
यथायथा (अव्ययः)
सूर्यांशुसंतप्तोसूर्य–अंशु–संतप्त (√सम्-तप् + क्त, १.१)
हिमवान्हिमवन्त् (१.१)
प्रस्रुतोप्रस्रुत (√प्र-स्रु + क्त, १.१)
हिमम्हिम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रस्रु तःर्व गा त्रे भ्यः
स्वे दः शो काग्नि सं वः
था सू र्यांशु सं प्तो
हि वा न्प्रस्रु तोहि मम्