२.८.१५

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥

अन्वयः

अनवद्याङ्गि O one of beautiful limbs, कैकेयि Kaikeyi, तस्मात् for that reason, पार्थिवा: kings, ज्येष्ठे (either) in the eldest son, गुणवत्सु possessing virtues, इतरेष्वपि or in other sons, राज्यतन्त्राणि governance of a kingdom, स्थापयन्ति beston.

Summary

O Kaikeyi of beautiful limbs, for that reason kings bestow the governance of the kingdom either on the eldest or on other virtuous sons.

पदच्छेदः

तस्माज्तस्मात् (अव्ययः)
ज्येष्ठेज्येष्ठ (७.१)
हिहि (अव्ययः)
कैकेयिकैकेयी (८.१)
राज्यतन्त्राणिराज्य–तन्त्र (२.३)
पार्थिवाःपार्थिव (१.३)
स्थापयन्त्य्स्थापयन्ति (√स्थापय् लट् प्र.पु. बहु.)
अनवद्याङ्गिअनवद्याङ्ग (८.१)
गुणवत्स्व्गुणवत् (७.३)
इतरेष्व्इतर (७.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा ज्ज्ये ष्ठेहि कै केयि
राज्य न्त्राणि पार्थि वाः
स्थान्त्य द्याङ्गि
गुत्स्वि रेष्वपि