२.८.२

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।
शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥

अन्वयः

बालिशे O foolish one, अस्थाने misplaced, हर्षम् happiness, कृतवती असि you are displaying, इदम् this one, किम् why, शोकसागरमध्यस्थम् in the midst of the ocean of sorrow, आत्मानम् about yourself, नावबुध्यसे do not know.

Summary

O foolish woman why do you display this misplaced happiness, little realising that you are in the midst of an ocean of sorrow?

पदच्छेदः

हर्षंहर्ष (२.१)
किम् (२.१)
इदम्इदम् (२.१)
अस्थानेअस्थान (७.१)
कृतवत्य्कृतवत् (√कृ + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )
बालिशेबालिश (८.१)
शोकसागरमध्यस्थम्शोक–सागर–मध्य–स्थ (२.१)
आत्मानंआत्मन् (२.१)
नावबुध्यसे (अव्ययः)–अवबुध्यसे (√अव-बुध् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षंकिमि स्था ने
कृत्यसि बालि शे
शो सा ध्यस्थ
मा त्मा नं ना बुध्य से