२.८.२१

तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ।
रामस्तु भरते पापं कुर्यादिति न संशयः ॥

अन्वयः

तस्मात् therefore, राम: Rama, लक्ष्मणे to Lakshmana, पापम् harm, किञ्चित् even little, न करिष्यति will not do, भरते तु as to but in respect of Bharata, राम: Rama, पापम् harm, कुर्यात् will do, इति in this, न संशय: there is no doubt.

Summary

Rama will do no harm to Lakshmana. As for Bharata, Rama will doubtless do him harm.

पदच्छेदः

तस्मान्तस्मात् (अव्ययः)
(अव्ययः)
लक्ष्मणेलक्ष्मण (७.१)
रामःराम (१.१)
पापंपाप (२.१)
किंचित्कश्चित् (२.१)
करिष्यतिकरिष्यति (√कृ लृट् प्र.पु. एक.)
रामस्राम (१.१)
तुतु (अव्ययः)
भरतेभरत (७.१)
पापंपाप (२.१)
कुर्याद्कुर्यात् (√कृ विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
(अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मान्नक्ष्म णे रा मः
पा पं किं चित्क रिष्यति
रास्तु ते पा पं
कु र्यादिति सं यः