२.८.२३

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।
यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥

अन्वयः

भरत: Bharata, धर्मात् righteously, पित्र्यम् relating to his father,राज्यम् kingdom, अवाप्स्यसि यदि if he secures, एवं चेत् if it happens that way, ते to you, ज्ञातिपक्षस्य चैव and also to your relations, श्रेय: welfare, भविष्यति will happen.

Summary

If Bharata secures the ancestral kingdom righteously, it will bring welfare to you and to your relations also.

पदच्छेदः

एवंएवम् (अव्ययः)
तेत्वद् (६.१)
ज्ञातिपक्षस्यज्ञाति–पक्ष (६.१)
श्रेयश्श्रेयस् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
यदियदि (अव्ययः)
चेद्चेद् (अव्ययः)
भरतोभरत (१.१)
धर्मात्धर्म (५.१)
पित्र्यंपित्र्य (२.१)
राज्यम्राज्य (२.१)
अवाप्स्यतिअवाप्स्यति (√अव-आप् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं ते ज्ञाति क्षस्य
श्रे श्चै विष्यति
दि चेद्भ तो र्मा
त्पि त्र्यं राज्य वाप्स्यति