२.८.२४

स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥

अन्वयः

ते your, सुखोचित: accustomed to comforts, स: बाल: that young Bharata, रामस्य of Rama, सहज:रिपु: is born enemy, नष्टार्थ: deprived of all wealth, समृद्धार्थस्य of prosperous (Rama), वशे under the control, कथम् how, जीविष्यति will live.

Summary

Your son, that young Bharata, is accustomed to comforts. He is a born enemy of Rama. How will he, deprived of all wealth, live under the control of Rama?

पदच्छेदः

तद् (१.१)
तेत्वद् (६.१)
सुखोचितोसुख–उचित (१.१)
बालोबाल (१.१)
रामस्यराम (६.१)
सहजोसहज (१.१)
रिपुःरिपु (१.१)
समृद्धार्थस्यसमृद्ध (√सम्-ऋध् + क्त)–अर्थ (६.१)
नष्टार्थोनष्ट (√नश् + क्त)–अर्थ (१.१)
जीविष्यतिजीविष्यति (√जीव् लृट् प्र.पु. एक.)
कथंकथम् (अव्ययः)
वशेवश (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेसु खोचि तो बा लो
रास्य जोरि पुः
मृ द्धा र्थस्य ष्टा र्थो
जी विष्यति थं शे