२.८.४

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥

अन्वयः

सुमहतीम् very great, प्रीतिम् delight, प्राप्ताम् having obtained, प्रतीताम् renowned, हतद्विषम् with her enemies destroyed, तां कौशल्याम् that Kausalya, त्वम् you, दासीवत् like an attendant, कृताञ्जलि: with folded palms, उपस्थास्यसि will serve.

Summary

With folded palms like an attendant, you will have to serve that renowned Kausalya who is greatlly delighted by getting rid of her enemies.

पदच्छेदः

प्राप्तांप्राप्त (√प्र-आप् + क्त, २.१)
सुमहतींसु (अव्ययः)–महत् (२.१)
प्रीतिंप्रीति (२.१)
प्रतीतांप्रतीत (√प्रति-इ + क्त, २.१)
तांतद् (२.१)
हतद्विषम्हत (√हन् + क्त)–द्विष् (२.१)
उपस्थास्यसिउपस्थास्यसि (√उप-स्था लृट् म.पु. )
कौसल्यांकौसल्या (२.१)
दासीवदासी (१.१)–इव (अव्ययः)
त्वंत्वद् (१.१)
कृताञ्जलिःकृत (√कृ + क्त)–अञ्जलि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा प्तांसु तीं प्री तिं
प्र ती तां तांद्वि षम्
स्थास्यसि कौ ल्यां
दा सी त्वंकृ ताञ्ज लिः