२.८१.१७

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥

अन्वयः

महायशाः the illustrious one, राघवः Rama, तदा then, लक्ष्मणेन by Lakshmana, समानीतम् brought by, वारि water, सीतया सह with Sita, पीत्वा after drinking, औपवास्यम् fasting, अकार्षीत् undertook.

M N Dutt

Thus did that magnanimous one beseech us. On the high-souled Lakşmaņa bringing water, Rāghava having drunk it, fasted along with Sītā.

Summary

Illustrious Rama along with Sita only drank the water brought by Lakshamana and undertook fasting.

पदच्छेदः

लक्ष्मणेनलक्ष्मण (३.१)
समानीतंसमानीत (√समा-नी + क्त, २.१)
पीत्वापीत्वा (√पा + क्त्वा)
वारिवारि (२.१)
महायशाःमहत्–यशस् (१.१)
औपवास्यंऔपवास्य (२.१)
तदाकार्षीद्तदा (अव्ययः)–अकार्षीत् (√कृ प्र.पु. एक.)
राघवःराघव (१.१)
सहसह (अव्ययः)
सीतयासीता (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्म णे मा नी तं
पी त्वा वारि हा शाः
वा स्यं दा का र्षी
द्रा वः सी या