२.८१.२२

नियम्य पृष्ठे तु तलाङ्गुलित्रवा;ञ्शरैः सुपूर्णाविषुधी परंतपः ।
महद्धनुः सज्यमुपोह्य लक्ष्मणो; निशामतिष्ठत्परितोऽस्य केवलम् ॥

अन्वयः

परन्तपः scorcher of enemies, लक्ष्मणः Lakshmana, तलाङ्गुलित्रवान् wearing protective covering for his palms and fingers (made of gohaskin), शरैः arrows, सुपूर्णौ filled with, इषुधी two quivers, पृष्ठे on his back, नियम्य strapping, सज्यम् furnished with string, महत् great, धनुः bow, उपोह्य holding, निशाम् during that night, अस्य Rama's, परितः surrounding, अतिष्ठत् केवलम् stood throughout.

M N Dutt

Fastening on his back a pair of quivers filled with arrows furnished with finger-fences, and taking his mighty bow, Lakşmaņa all night kept watch around.

Summary

Lakshmana, the scorcher of enemies, wearing protective covering for his palms and fingers (made of gohaskin), strapping on his back two quivers filled with arrows, holding a great bow, strung ready, stood sentinel throughout the night guarding the surrounding.

पदच्छेदः

नियम्यनियम्य (√नि-यम् + ल्यप्)
पृष्ठेपृष्ठ (७.१)
तुतु (अव्ययः)
तलाङ्गुलित्रवाञ्तल–अङ्गुलित्रवत् (१.१)
शरैःशर (३.३)
सुपूर्णाविषुधीसु (अव्ययः)–पूर्ण (√पृ + क्त, २.२)–इषुधि (२.२)
परंतपःपरंतप (१.१)
महद्महत् (२.१)
धनुःधनुस् (२.१)
सज्यम्सज्य (२.१)
उपोह्यउपोह्य (√उप-वह् + ल्यप्)
लक्ष्मणोलक्ष्मण (१.१)
निशाम्निशा (२.१)
अतिष्ठत्अतिष्ठत् (√स्था लङ् प्र.पु. एक.)
परितोपरितस् (अव्ययः)
ऽस्यइदम् (६.१)
केवलम्केवलम् (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
निम्य पृ ष्ठेतु लाङ्गु लित्र वा
ञ्श रैःसु पू र्णाविषु धी रं पः
द्ध नुःज्यमु पोह्यक्ष्म णो
नि शा ति ष्ठत्परि तोऽस्य के लम्