२.८३.१०

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्येव समानिन्युः समन्ततः ॥

अन्वयः

तथा thus, उक्ताः addressed, ते they, राजशासनात् by the king's command, त्वरिताः in haste, आशु immediately, समन्ततः from every direction, नावाम् of the boats, पञ्चशतानि five hundreds, समानिन्युः brought.

M N Dutt

Thus asked, they arising and bestirring themselves in consequence of the king's command, brought up five hundred boats around.

Summary

On hearing these words, they arose in haste and immediately brought five hundred boats from every direction in accordance with the command of their king (Guha).

पदच्छेदः

तेतद् (१.३)
तथोक्ताःतथा (अव्ययः)–उक्त (√वच् + क्त, १.३)
समुत्थायसमुत्थाय (√समुत्-स्था + ल्यप्)
त्वरितात्वरित (√त्वर् + क्त, १.३)
राजशासनात्राजन्–शासन (५.१)
पञ्चपञ्चन् (२.३)
नावांनौ (६.३)
शतान्य्शत (२.३)
एवएव (अव्ययः)
समानिन्युःसमानिन्युः (√समा-नी लिट् प्र.पु. बहु.)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते थो क्ताः मु त्था
त्वरि ता रा शा नात्
ञ्च ना वां ता न्ये
मा नि न्युःन्त तः